भज भज दत्तम्। भज भज दत्तम्।
भज भज दत्तम्। भज भज दत्तम्।
ॐ तत् सवितुः तत् देवतायाः वरेण्य भर्गो धीमहीह।
प्रचोदयेद्वैः धीयोः योनः तं ब्रह्माणं ज्ञान सूर्यम्॥
प्राणेप्रसवात् यः प्रसिद्धः सवितेद्यस ब्रह्म तेजः।
शिश्यधियश्च प्रेरयेन्नः तं गायत्री मन्त्र सारम्॥
गायत्रीयं छन्द एव सविता देवः स्मर्यतेच।
शिश्यान्धकार मुकुलिताब्ज्य धीविकासदं गुरुवर्येण्यम्॥
कर्ता भर्ता ह्येश हर्ता सर्वस्यास्य श्रूयते हि।
त्रिमूर्तिरूपं ब्रह्मचैकम् ब्रह्माकारं ब्रह्मवाजम्॥
त्रिपदं छन्दः त्रिस्वरोक्तं त्रिकालवन्द्यं त्रिगुणसूत्रम्।
त्रिवाहिनीनां सङ्गमं वा त्रिमूर्ति तत्त्वं यंयनक्ति॥
ॐकारश्च त्रिविध वर्णाः तिस्रोव्याहृतः योऽपि यंहि।
सम्बोधयन्ति सर्व मन्त्रो यमेववक्ति त्रिगुणमेकम्॥
चत्वारोयं वेद शुनकाः गौरनुसरतिच वेद धर्मः।
वीणा श्रवणं वाणीपतिं षोडशवर्षं ब्रह्मदेवम्॥
जगदारम्भं हंस वाहं तेजोवदनं मन्त्र मूलम्।
गायत्रीशं सामगानं विद्यानिलयं वेद पाठम्॥
यज्ञाचरणं होमनिष्ठं कमण्डलुधरं दर्भ पाणिम्।
अग्निज्ज्वाला भासमानं प्रातः सन्ध्या बाल भानुम्॥
चन्दन तिलके कुङ्कुमाङ्कं ब्रह्म तेजसा दीप्यमानम्।
त्रिजगन्मोहन सुन्दराङ्गं काशाय धरं पण्डितेशम्॥
अत्रेः पुत्रं ब्रह्म दत्तं अनसूयाम्बा प्रेमराशिम्।
अजनमेखलं ब्रह्मदण्डं यज्ञोपवीतमक्षमालम्
स्वतनोरुज्जत् कमलगन्धैः त्रिभुवनानि ह्लादयन्तम्।
ब्रह्ममुहूर्ते साधकानां प्रचोदयेत्ता धियो योनः॥
सृष्टि क्रमवद पुरुषसूक्तं त्रिस्वरबद्धं पावनार्थम्।
ऋषिभिः पठितं ब्रह्म काले श्रुत्वा श्रुत्वा प्रीयमाणम्॥
त्रिमताचार्यैः पठ्यमानान् तत्तन्मतमय भाष्यवादान्।
श्रुत्वा सिद्धाः तार्थमन्त्यं समन्वयमतं वाचयन्तम्॥
वेदन्तानाम् अन्तिमार्थं वेदन्तार्थं बोधयन्तम्।
ऋषिभिः परितो भाषमाणं शास्त्रर्थेषु व्यञ्जितेषु॥
आयुधवर्जित पाणिपद्मं वचैः वारिं मारयन्तम्।
कर्मफलानि ललाटपत्रे लिखन्तमायोः दाय दानम्॥
आचार्येन्द्रं वाक्प्रचारं भुविसञ्चारं निर्विचारम्।
कलाभिचारं सदाचारं सुरपरिचारं चित्तचोरम्॥
पद्मसम्भवं पद्मपीठं पद्मसुगन्धं पद्मवर्णम्।
पद्मापुत्रं पद्मनेत्रं पद्मसुपाणिं पद्मपादम्॥
वीणापाणिः यस्य शिष्या वाणीगायति ज्ञान देवी।
तं वागीशं सामवाचा चरषोणाधर मन्त्रपाठम्॥
यत् सङ्कल्पः केवलंहि सर्वं विश्वं रचितमेवम्।
आद्यं देवं प्रथम मूर्तिं आराधनेयामजमनादिम्॥
ललाटरेखां कर्मवर्धां परिमार्ष्टुम्यः केवलोहि।
सर्वसमर्थो लेखकोयं धातारन्तं मूलमूलम्॥
चतुरांनायां चतुरवाचा चतुरास्याब्जैः रुत्तिरन्तम्।
कविंकवीनां आदिकाव्यं सर्वजगदिदं विरचयन्तम्॥
अरव ब्रह्म ब्रह्म शब्दो यस्मिन्नेव प्रकृतिहेतौ।
पूजातीतं परमपूज्यं दिवसारम्भे पूजनीयम्॥
गयत्र्याद्या यस्य भार्याः त्रिशक्तयस्ताः त्रिमुख पद्मम्।
देवपितृणां पितरमेव पितामहाख्यं ब्रह्मरूपम्॥
॥फलश्रुतिः॥
श्री दत्त ब्रह्म गायत्रीं यो गायेद् ब्रह्म कालिकीम्।
स ब्रह्म तेजसा दीप्तो ज्ञानी ब्रह्मत्वमश्नुते॥
शतायुर्दायमाप्नोति सर्व विद्याः प्रपद्यते।
सत्पुत्रं लभते होवात् ऐश्वर्यम् ब्रह्म वीक्षितः॥
भज भज दत्तम्। भज भज दत्तम्। भज भज दत्तम्। भज भज दत्तम्।
To download this bhajan sung by H H Shri Dattaswami, right click and save link as here.
Monday, February 23, 2009
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment