वन्दनीयं विष्णुचक्रं वारणार्थं छिन्ननक्रम्
खण्डितासुर वृत्तिवक्रं रक्षितामर लोकशक्रम्
वन्दनीयं विष्णुचक्रं वारणार्थं छिन्ननक्रम्
आश्रितामर भागध्येयं विक्रमोज्ज्वल मप्रमेयम्
आगमान्तर मन्त्र गेयं श्री सुदर्शन नाम ध्येयम्
वन्दनीयं विष्णुचक्रं वारणार्थं छिन्ननक्रम्
कार्तवीर्य महावतारं चोरदण्डन लोक चारम्
धारयाहृत भूमि भारं विद्युदुज्ज्वल वल्लिहारम्
वन्दनीयं विष्णुचक्रं वारणार्थं छिन्ननक्रम्
माधवाङ्गुलि नाभि सारं दत्तभक्त विपत्तिपारं
अष्ट सिद्धि महत्त्वपूरं शत्रुकर्तन कोटिहीरम्
वन्दनीयं विष्णुचक्रं वारणार्थं छिन्ननक्रम्
To download this bhajan sung by H H Shri Dattaswami, right click and save link as here.
Monday, March 9, 2009
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment